Posts

Showing posts from July, 2022

नारद पुराण उत्तरार्ध अध्याय ८२ भाग ४

 यं यं काममभिध्यायन्नरो नार्यथवादरात् शृणोति श्रावयेद्वापि तं तं प्राप्नोति निश्चितम् ४८ रोगार्तो मुच्यते रोगाद्धयात निर्भयो भवेत् जयकामो जयेच्छत्रून्नारदीयानुशीलनात् ४९ सृष्ट्यादौ रजसा विश्वं मध्ये सत्त्वेन पाति यः तमसाऽते ग्रसेदेतत्तस्मै सर्वात्मने नमः ५० ऋषयो मनवः सिद्धा लोकपालाः प्रजेश्वराः ब्रह्माद्या रचिता येन तस्मै ब्रह्मात्मने नमः ५१ यतो वाचो निवर्तन्ते न मनो यत्र संविशेत् तद्विद्यादात्मनो रूपं ह्यरूपस्य चिदात्मनः ५२ यस्य सत्यता सत्यं जगदेतद्रिकाशते विचित्ररूपं वन्दे तं निर्गुणं तमसः परम् ५३ आदौ मध्ये चाप्यजनचान्ते चकाचरो विभः विभाति नानारूपेण तं वन्देऽह निरञ्जनम् ५४ निरञ्जनात्समुत्पन्नं जगदेतञ्चराचरम् तिष्ठत्यप्येति वा यस्मिंस्तत्सत्यं ज्ञानमद्वयम् ५५ शिवं शैवा वदन्त्येनं प्रधानं साङ्ख्यवेदिनः योगिनः पुरुषं विप्राः कर्म मीमांसका जनाः ५६ विभुं वैशेषिकाद्याश्च चिच्छक्तिं शक्तिचिन्तकाः ब्रह्माद्वितीयं तद्न्दे नानारूपक्रियास्पदम् ५७ भक्तिर्भगवतः पुंसां भगवद्रूपकारिणी तां लब्ध्वा चापरं लाभ को वाञ्छति विना पशुम ५८ भगवद्विमुखा ये तु नराः संसारिणो द्विजाः तेषां मुक्तिर्भवाटव्या नास्ति

नारद पुराण उत्तरार्ध अध्याय ८२ भाग ३

 यस्मै कस्मै न दातव्यं मह्यं व्यासेन कीर्तितम हित्वा स्वशिष्यान्यलादीन्मह्यं नारदसंहिताम् ३४ यो व्याचक्रे नमस्तस्मै वेदव्यासाय विष्णुवे पुराणसंहितामेतां नारदाय विपश्चिते ३५ सनकाद्या महाभागा मुनयः प्रचकाशिरे हंसस्वरूपी भगवान्यदा तं ब्रह्म शाश्वतम् ३६ तदुपादिशदेतेभ्यो विज्ञानेन विजृम्भितम् तदिदं भगवान्साक्षान्नारदोऽध्यात्मदर्शनः ३७ वेदव्यासाय मुनये रहस्यं निर्दिदेश ह मया प्रकाशितं ह्येतद्रहस्यं भुवि दुर्लभम् ३८ चतुर्वर्गप्रदं नृणां शृण्वतां पठतां सदा विप्रो वेदनिधिर्भयात्तत्रियो जयते महीम् ३९ वैश्यो धनसमृद्धः स्याच्छूद्रो मुच्येत दुःखतः पञ्चविंशतिसाहस्री संहितेयं प्रकीर्तिता ४० पञ्चपादसमायुक्ता कृष्णद्वैपायनेन ह अस्यां वै श्रूयमाणायां सर्वसन्देहभञ्जनम् ४१ पुंसां सकामभक्तानां निष्कामानां विमोक्षणम् पुण्यतीर्थं समासाद्य नैमिषं पुष्करं गयाम ४२ मथुरां द्वारकां विप्रा नरनारायणाश्रमम कुरुक्षेत्रं नर्मदां च क्षेत्रं श्रीपुरुषोत्तमम् ४३ हविष्याशी धराशायी निःसङ्गो विजितेन्द्रियः पठित्वा संहितामेनां मुच्यते भवसागरात् ४४ एकादशी व्रतानां च सरितां जाह्नवी यथा वृन्दावनमरण्यानां क्षेत्राणां कौरवं यथा ४

नारद पुराण उत्तरार्ध अध्याय ८२ भाग २

 त्र्यम्बकेशं ततः प्रार्य सम्प्राप्ता सा त्रिपुष्करम् पुष्करेषु विधानेन दत्वा दानान्यनेकशः १८ सम्प्राप्ता सा तु मथुरां सर्वतीर्थोत्तमोत्तमाम विधायाभ्यन्तरी यात्रां योजनानां तु विंशतिम् १९ परिक्रम्य पुरीं पश्चाच्चतुर्व्यूहं ददर्श सा स्नात्वा विंशतितीर्थे त समाप्याथ प्रदक्षिणाम् २० धेनूनामयुतं प्रादान्माथुरेभ्यो ह्यलङ्कृतम् सम्भोज्य तान्वरानेन भक्तिक्लिन्ब्रेन चेतसा २१ नमस्कृत्य विसृज्यैतान्कालिन्दीं समुपाविशत् ततः प्रविष्टा सा देवीं कालिन्दीमघनाशिनीम् २२ नाद्यापि निर्गता भूयो यमतिथ्यन्तमास्थिता स्मार्तान्सूर्योदयं प्राप्य श्रौतानप्यरुणोदयम् २३ निशीथं वैष्णवान्विप्राः प्राप्य दूषयते बतान मोहिनीवेधरहितामुपोष्येकादशीं नरः २४ द्वादश्यां विष्णुमभ्यर्च्य वैकुण्ठं यात्यसंशयम् मोहिनी विधिजा देवी विष्णुजैकादशी द्विजाः २५ विष्णुजास्पर्द्धया धात्रा मोहिनी सा विनिर्मिता रुक्माङ्गदस्तु राजर्षिर्विष्णुभक्तिपरायणः २६ न तु वारयितुं शक्ता सा तमेकादशीव्रतात् विष्णुलोकं गते तस्मिन्सभायें ससुते नृपे २७ स्पर्द्धन्त्यैकादशीं सिद्धिं यमान्ते मोहिनी स्थिता इत्येतदुक्तं विप्रेन्द्रा मोहिनीचरितं मया २८ यदर्थ निर

नारद पुराण उत्तरार्ध अध्याय ८२ भाग १

 ऋषय ऊचुः - सूत साधो त्वयाख्यातं श्रीकृष्णचरितामृतम् श्रुतं कृतार्थास्तेन स्मो वयं भवदनुग्रहात् १ गते वसौ ब्रह्मलोकं मोहिनी विधिनन्दिनी किं चकार ततः पश्चात्तत्रो व्याख्यातुमर्हसि २ सूत उवाच मृणुध्वमृषयः सर्वे मोहिन्याचरितं शुभम् यञ्चकार वसोः पश्चात्तीर्थानां परिसेवनम् ३ यथानुशिष्टा वसुना मोहिनी सा विधेः सुता जगाम विधिना तीर्थयात्रार्थं स्वर्णदीतटम ४ तत्र गत्वा समाप्लुत्य गङ्गादीनि तु वैधसी चचार विधिवद्धृष्टा ब्राह्मणेः सह सङ्गता ५ पुरोहितेन वसुना यस्य तीर्थस्य यो विधिः कथितस्तत्प्रकारेण सेवमाना चचार ह ६ तेषु तीर्थेष देवांश्च विष्णुवादीन्पूजयन्त्यथ समर्पयन्ती विप्रेभ्यो दानानि विविधानि च ७ गयायां विधिवद्भर्तुः पिण्डदानं चकार ह काश्यां विश्वेश्वरं प्रार्च्य सम्प्राप्ता पुरुषोत्तमम् ८ तस्मिन् क्षेत्रे तु नैवेद्यं भुक्त्वा सा जगदीशितुः शुद्धदेहा ततः पश्चात्सम्प्राप्ता लक्ष्मणाचलम् ९ तं समभ्यर्च्य विधिवद्द्रत्वा सेतुं समर्च्य च रामेश्वरं महेन्द्राद्रिं भार्गवं समवन्दत १० गोकर्णं च शिवक्षेत्रं गत्वाभ्यच्यं तमीश्वरम् प्रभासं प्रययौ विप्राः सार्द्धं तैर्द्विजसत्तमे ११ स्नात्वा सन्तर्प्य देवादी

नारद पुराण उत्तरार्ध अध्याय ८१ भाग ४

 पौण्ड्रकं शिशुपालं च दन्तवक्त्रं विदूरथम् शाल्वं च हत्वा द्विविदं बल्वलं घातयिष्यति ४१ वज्रनाभं सुनाभं च सार्द्धं वै षट्पुरालयैः त्रिशरीरं ततो दैत्यं हनिष्यति वरोर्जितम् ४२ कौरवान्पाण्डवांश्चापि निमित्तमितरेतरम् कृत्वा हनिष्यति शिव भूभारहरणोत्सुकः ४३ यदून्यदुभिरन्योन्यं संहृत्य स्वकुलं हरिः पुनरेतन्निजं धाम समेष्यति च सानुगः ४४ एतत्तेऽभिहितं शम्भो भविष्यञ्चरितं हरेः गच्छ द्रक्ष्यसि तत्सर्वं जगतीतलगे हरौ ४५ तच्छ्रुत्वा सुरभेर्वाक्यं भृशं प्रीतो विधातृज स्वस्थानं पुनरायातस्तुभ्यं चापि मयोदितम् ४६ त्वं च द्रक्ष्यसि कालेन चरितं गोकुलेशितुः तच्छ्रुत्वा शूलिनो वाक्यं वसुर्दृष्टतनूरुहः ४७ गायन्माद्यन् विभुं तन्त्र्या रमयाम्यातुरं जगत् एतद्भविष्यत्कथितं मया तुभ्यं द्विजोत्तम ४८ यथा तु गौतमस्तद्रदहं चापि हिते रतः सूत उवाच इत्युक्त्वा नारदस्तस्मै वसवे स द्विजन्मने ४९ जगाम वीणां रणयंश्चिन्तयन्यदुनन्दनम् स वसुस्तद्वचः श्रुत्वा व्रजे सुप्रीतमानसः ५० उवास सर्वदा विप्राः कृष्णक्रीडेक्षणोत्सुकः ५१ 41. पौंडक (ढोंग वासुदेव), शिशुपाल, दंतवक्त्र, विदुरथ, साल्व और द्विवेद को मारने के बाद, वह बलवला को मार

नारद पुराण उत्तरार्ध अध्याय ८१ भाग ३

 याहि त्वं मानुषं लोकं मिथः शापाद्धरां ततः प्राप्स्यत्यथ हरिः पश्चाद्ब्रह्मणा प्रार्थितः क्षितौ २९ भूभारहरणायैव वासुदेवो भविष्यति वसुदेवगृहे जन्म प्राप्य यादवनन्दनः ३० कंसासुरभिया पञ्चाद्व्रजं नन्दस्य यास्यति तत्र यातो हरिः प्राप्तां पूतनां बालघातिनीम् ३१ वियोजयिष्यति प्राणेश्चक्रवातं च दानवम् वत्सासुरं महाकायं हनिष्यति सुरार्द्दनम् ३२ दमित्वा कालियं नागं यम्या उच्चाटयिष्यति दुःसहं धेनुकं हत्वा बकं तद्वदघासुरम् ३३ दावं प्रदावं च तथा प्रलम्बं च हनिष्यति ब्रह्माणमिन्द्रं वरुणं प्रमत्तौ धनदात्मजौ ३४ विमदान्स विधायेशो हनिष्यति वृषासुरम् शङ्खचूडं केशिनं च व्योमं हत्वा वजे वसन् ३५ एकादश समास्तत्र गोपीभिः क्रीडयिष्यति ततश्च मथुरां प्राप्य रजकं सन्निहत्य च ३६ कुब्जामृज्वीं ततः कृत्वा धनुर्भङ्क्त्वा गजोत्तमम् हत्वा कुवलयापीडं मल्लांश्चाणूरकादिकान् ३७ कंसं स्वमातुलं कृष्णो हनिष्यति ततः परम् विमुच्य पितरौ बद्धौ यवनेशं निहत्य च ३८ जरासन्धभयात्कृष्णो द्वारकायां समुष्यति रुक्मिणीं सत्यभामां च सत्यां जाम्बवती तथा ३९ कैकेयीं लक्ष्मणां मित्रविन्दां कालिन्दिकां विभुः दारान्षोडशसाहस्रान्भौमं हत्वोद्वहिष्

नारद पुराण उत्तरार्ध अध्याय ८१ भाग २

 ततः स वसुरुत्थाय अष्टाङ्गालिङ्गितावनिः प्राह वृन्दावने देव वासमिच्छामि सर्वदा १४ अथ विष्णुर्द्विजश्रेष्ठा वरं तद्वाञ्छितं ददौ तेनाभिवन्दितो भूयो ह्यन्तर्धानमुपागतः १५ स द्विजस्तत्प्रभृत्येवं स्वेच्छारूपधरः स्थितः चिन्तयन्सततं देवं वृन्दारण्यकुतूहलम् १६ कदाचिद्यमुनातीरे निविष्टस्तं विचिन्तयन् ददर्श नारदं प्राप्तं वृन्दारण्यं विधेः सुतम् १७ स तं दृष्ट्वा नमस्कृत्य परमं गुरुमात्मनः प्रपच्छ विविधान्धर्मान् भगवद्भक्तिवर्द्धनान् १८ स तेनैवं सुसम्पृष्टो नारदोऽध्यात्मदर्शनः तस्मै प्रोवाच निखिलं भविष्यञ्चरितं हरेः १९ एकदाहं गतो विप्र देवं कैलासवासिनम् द्रष्टं प्रष्टं भविष्यञ्च वृन्दावनरहस्यकम् २० ततः प्रणम्य देवेशं ततः सिद्धैः समावृतम् महेशं स्वमहिव्याप्तसर्वब्रह्माण्डगोलकम् २१ अपृच्छमीप्सितं भद्रं स मां प्राह स्मयन्हरः वैधात्र यत्त्वया पृष्टं हरेर्वृत्तमनागतम् २२ तत्ते बीमि यत्पूर्वं श्रुतं सुरभिवक्त्रतः एकदा सुरभिर्दृष्टा मया गोलोकमध्यगा २३ स्वसन्तानसमायुक्ता सुप्रीता स्त्रिग्धमानसा ततः पृष्टा भविष्यार्थे गवां माता पयस्विनी २४ मह्यं प्रोवाच देवर्षे भविष्यच्चरितं हरेः सुखमास्तेऽधुना देवः कृष्

नारद पुराण उत्तरार्ध अध्याय ८१ भाग १

 वसुरुवाच यदेतत्कीर्तितं देवि तीर्थमाहात्म्यमुत्तमम् तल्लभस्व महाभागे चरित्वा तीर्थमण्डलम् १ अहं ब्रह्माणमामन्त्र्य पितरं ते नरेश्वरि वृन्दावनमुपागम्य चरिष्यामि मृगैः सह २ सूत उवाच इत्युक्त्वा मोहिनीं विप्रा वसुस्तस्याः पुरोहितः सत्कृत्य पूजितोऽभीक्ष्णं ब्रह्मलोकं ययौ तथा ३ स गत्वा तत्र धातारं ब्रह्माणं जगतां विधिम प्रणम्य मोहिनीवृत्तं तं कार्त्स्न्येन न्यवेदयत् ४ तच्छ्रुत्वा वचनं ब्रह्मा ब्राह्मणस्य वसोर्द्विजाः प्रसन्नः प्राह तं वत्स सुकृतं हि त्वया कृतम् ५ या मया मोहिनी विप्र देवकार्यार्थमात्मजा नियुक्ताऽकृतकार्या सा त्वया शप्ता क्षयं गता ६ भूयो ममाज्ञया वत्स त्वया सा जीविताधुना नीता कृतार्थतां तस्मात्कोऽन्यस्त्वत्तोऽधिकः कृती ७ यत्त्वया मह्यमाख्यातं मोहिनीवृत्तमुत्तमम् प्रसन्नस्तेन दास्यामि ब्रूहि तुभ्यं वरं द्विज ८ इत्युक्तः स द्विजस्तेन ब्रह्मणा लोकभाविना प्रणम्य वव्रे स वरं वृन्दारण्यनिवासनम् ९  तच्छ्रुत्वा जगतां धाता स्मयमानचतुर्मुखः प्राह प्रपन्नार्तिहरस्तथास्त्विति मुनीश्वराः १० स प्रणम्य विधातारं वसुधृष्टमनास्ततः वृन्दावनमुपावज्य तपश्चक्रे समाहितः ११ तपतस्तस्य तु वसोः संवत्स

नारद पुराण उत्तरार्ध अध्याय ८० भाग ८

 अश्रोत्रेशो रहसि वनितां रक्षति स्वां रसज्ञो वंशीनादश्रवणजभिया कान्यवार्ता जनानाम् छेदं शोषं तदनु दहनं भेदनं प्राप्य यासी च्छ्रीगोपीशाघरजनिसुधां सादरं शीलयन्ती १०८ याभिर्वृन्दावनमनुगतो नन्दसूनुः क्षपासु रेमे चन्द्रांशुकलितसमुद्योतभद्रे निकुञ्जे तासां दिष्टं किमहमधुना वर्णये बल्लवीनां यासां साक्षाच्चरणजरजः श्रीशविध्याद्यलभ्यम् १०९ यत्र प्राप्तास्तृणमृगखगा ये कृमिप्राणिवृन्दा वृन्दारण्ये विधिहररमाभ्यर्हणीया भवन्ति तत्सम्प्राप्याद्वयपदरतो ब्रह्मभूयं गतः कौ प्रेमस्निग्धो विहरति सुखाम्भोधिकल्लोलमग्नः ११० यत्र क्रूराः सहजमसुभृद्वातजाता विसृज्य वैरं स्वैरं सुहृद इव तत्सौख्यमेवाश्रयंते तत्किं प्राप्य प्रभुमिव जनः सम्परित्यज्य गच्छन् क्वाप्यन्यत्र प्रभवति सुखी कृष्णमायाकरण्डे १११ वृन्दारण्यं तदखिलधरापुण्यरूपं श्रयन्मे स्वान्तं ध्वान्तं जगदिदमधः कृत्य वर्वर्ति शश्वत् गोपीनाथः प्रतिपदमपि प्रेमसङिक्लन्नचेता नीचं वोच्चं न च गणयति प्रोद्धरत्येव भक्तान् ११२ गोपान् गोपीः खगमृगनगागोपगोभूरजांसि स्मृत्वा दृष्ट्वा प्रणमति जने प्रेमरज्ज्वा निबद्धः दास्यं भक्ते कलयतितरां तत्किमन्यं व्रजेशात् सेव्यं देवं गणय

नारद पुराण उत्तरार्ध अध्याय ८० भाग ७

 गिरिरूपधरं याति नित्यं योगिवनं क्वचित् कृष्णावतारे भगवान् ज्ञात्वा गोवर्द्धनं द्विजम् ९७ सम्प्राप्तं निजसारूप्यं नन्दाद्यैः समभोजयत् अन्नकूटेन दोहेन तर्पयित्वाचलं द्विजम् ९८ तृट्परीतं समाज्ञाय नवमेघानपाययत् मित्रं स वासुदेवस्य सञ्जातं तेन कर्मणा ९९ तं यो भक्त्या नरो देवि पूजयेदुपचारकैः प्रदक्षिणं परिक्रामेन तस्य पुनरुद्भवः १०० गोवर्द्धनो गिरिः पुण्यो जातो हरिनिवासतः तं दृष्ट्वा दर्शनेनालमन्यपुण्याचलस्य च १०१ यामुनं पुलिनं रम्यं कृष्णविक्रीडनाञ्चितम् त्वमेव ब्रूहि सुभगे क्वान्यत्र जगतीतले १०२ तस्मात्सर्वप्रयत्नेन त्यक्त्वा वननदीगिरीन् •सुपुण्यान्पुण्यदान् नृणां सेव्यं वृन्दावनं सदा १०३ यमी पुण्या नदी यत्र पुण्यो गोवर्द्धनो गिरिः तत्किं वृन्दावनात्पुण्यमरण्यं भुवि विद्यते १०४ कलिकल्मषभीतानां विषयासक्तचेतसाम् नान्यं वृन्दावनात्सेव्यमस्ति लोकेष्वषि त्रिषु १०५ यस्मिन्नित्यं विचरति हरिर्गोपगोगोपिकाभि बर्हापीडी नटवरवपुः कर्णिकारावतंसी वंशीहंसीस्वनजितरवो वैजयन्तीवृताङ्गो नन्दस्याङ्गाद्धृतमणिगणो यश्च हंसोऽहमाख्यः १०६ यस्य ध्यानं नगजनियुतोऽहर्निशं वै गिरीशो भक्तिक्लिन्नो रहसि कुरुते ह्यर्द्धनार

नारद पुराण उत्तरार्ध अध्याय ८० भाग ६

 सुपुण्यं पुण्यकृञ्जुष्टं दर्शनादेव मुक्तिदम् यस्य सन्दर्शनं देवा वाञ्छन्ति च सुदुर्लभम् ७८ लीलामाभ्यन्तरीं द्रष्टं तपसापि न च क्षमाः सर्वत्र सङ्गमुत्सृज्य यस्तु वृन्दावनं श्रयेत् ७९ न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु भामिनि वृन्दावनेति नामापि यः समुच्चरति प्रिये ८० तस्यापि भक्तिर्भवति सततं नन्दनन्दने यत्र वृन्दावने पुण्ये नरनारीप्लवङ्गमाः ८१ कृमिकीटपतङ्गाद्याः खगा वृक्षा नगा मृगाः समुञ्चरन्ति सततं राधाकृष्णेति मोहिनि ८२ कृष्णमायाभिभूतानां कामकश्मलचेतसाम् स्वप्रेऽपि दुर्लभं पुंसां मन्ये वृन्दावनेक्षणम् ८३ वृन्दारण्यं तु यैर्दृष्टं नरैः सकृतिभिः शुभे तैः कृतं सफलं जन्म कृपापात्राणि ते हरेः ८४ किं पुनर्बहुनोक्तेन श्रुतेन विधिनन्दिनि सेव्यं वृन्दावनं पुण्यं भव्यं मुक्तिमभीप्सुभिः ८५ दृश्यं गम्यं च संसेख्यं ध्येयं वृन्दावनं सदा नास्ति लोके समं तस्य भुवि कीर्तिविवर्द्धनम् ८६ यत्र गोवर्द्धनो नाम द्विजः कल्पे पुरातने विरक्तः सर्वसंसारात्तप्तवान्परमं तपः ८७ तद्गत्वा देवि देवेशो भगवान्विष्णुरव्ययः क्रीडास्थानं निजं प्राप्तो वरं दातुं द्विजन्मने ८८ तं दृष्ट्वा देवदेवेशं शङ्खचक्रगदाधरम् विलसत्क

नारद पुराण उत्तरार्ध अध्याय ८० भाग ५

 सदा सा सेवनव्यग्रा सैकैकेनाप्यनेकधा शतकोटिमितान्येवं मिथुनानि वसन्ति हि ५० कुब्जाकृष्णानुरूपाणि नानाक्रीडापराणि च सम्भूतान्याद्यमिथुनात्स्थावरं भाषयन्त्यपि ५१ गतागतविहीनानि नित्यं नवनवानि च तदगम्यं तृतीयस्य द्वितीयस्यैकतां गतम् ५२ रूपं विलक्षणं विप्र सृष्टिस्थितिलयैकलम् एकैवाहं विजानामि श्रुतं श्रुत्वा त्वमप्यथ ५३ दग्धः षट्कर्णगो मन्त्र इत्युक्तं समुपाचर श्रुत्वैतद्दुर्लभं सोऽपि वृन्दोक्त्या नारदो मुनिः ५४ उभयं चिन्तयन्प्राप्तो मुनिस्तत्रैव तत्परम् एतद्रहस्यं विधिजे विषयं गुरुशिष्ययोः ५५ न्व कोऽप्यपरो वेत्ति धर्मः सैवावयोरपि एक एव विजानाति वक्तुः श्रोतैकतः शुभे ५६ तदेकं तत्त्वमेवास्ति नेह नानास्ति किञ्चन गदितं ते महाभागे रहस्यं गोपिकेशितुः ५७ प्रकाशाचरितं चापि वच्ये सम्यनिशामय यत्र सन्दर्शितं तत्त्वं त्वत्पित्रे विधिनन्दिनि ५८ तद्ब्रह्मकुण्डमेतद्धि पुण्यं वृन्दावने वने तत्र यः स्नाति मनुजो मूलवेषं विभावयन् ५९ वैभवं पश्यते किञ्चिदेवं नित्यविहारिणः शक्रेण ज्ञाततत्त्वेन गोविन्दो यत्र चिन्तितः ६० गोविन्दकुण्डं तद्भद्रे स्नात्वा तत्रापि तल्लभेत् एकानेकस्वरूपेण यत्र कुञ्जविहारिणा ६१ वल्लवीभ

नारद पुराण उत्तरार्ध अध्याय ८० भाग ४

 न तां कोऽपि मुनिश्रेष्ठ विजानाति मया विना ततः संक्षेपतो वक्ष्ये यां दिदृक्षुस्तपोऽचरः ४० प्रातः प्रबोधितो मात्रा स्नात्वा भुक्त्वानुगान्वितः गोचारणाय विपिने वृन्दावन उपाविशत् ४१ सखिभिर्गोपकैः क्रीडां कुर्वन्संवारयंश्च गाः द्वित्रः प्रियसखैरत्र ममाश्रम उपावजत् ४२ मया प्रकल्पितैर्वत्सभवने सार्वकामिके फलमूलादिभिर्भक्ष्यस्तर्पितः प्रिययाऽस्वपत् ४३ सुसख्या राधया तत्र सेव्यमानो व्रजप्रियः सार्द्धयामं विहरति निकुञ्जेषु पृथक पृथक ४४ राधादिभिस्तत्र सुप्तो वीजितः शयनं गतः सार्द्धयामे स्वयं बुद्धो निजाः संमान्य ताः प्रियाः ४५ गोपैर्गोभिर्वृतः सायं वज्रं याति प्रहर्षितः सख्यं सखिस्थलं प्राप्य प्रियां सञ्चय राधिकाम् ४६ तया सह विशालाक्ष्यः स्वगेहान्यान्ति चान्वहम् एवं गतागतं कुर्वल्लींलां नित्यमुपागतः ४७ मयैव दृश्यते वत्स नापि ब्रह्मभवादिभिः मयाप्यलक्षितं वत्स कुब्जासङ्केतवैभवम् ४८ प्रीतप्रियोक्त्या जानामि सुगोप्यं प्रवदामि ते अङ्गरागार्पणात्पुण्यात्प्राप्ता सङ्केतमुत्तमम् ४९ 40. हे श्रेष्ठ मुनि, मेरे सिवा उसे कोई नहीं जानता। इसलिए मैं संक्षेप में बताऊंगा। आपने उसे देखने की इच्छा इसलिए की है कि आ

नारद पुराण उत्तरार्ध अध्याय ८० भाग ३

 ततस्तया समाहूता नारदी सा तदन्तिकम् प्राप्ता विश्वासिता स्वस्था नीता चापि स्थलान्तरम् २८ रत्नप्राकारखचिते भवने वनिताकुले प्रापय्य तां निवृत्तासौ सापि ताभिः सुसत्कृता २९ विशाखादिसखीवृन्दैराश्वास्याऽल्यैकया ततः प्रापिताभ्यन्तरे देवि सापश्यद्गोपिकेश्वरम् ३० दूत्यां तस्यां निवृत्तायां समाहूता प्रियेण सा नारदी प्रणिपत्येशं लज्जा नम्रान्तिकं ययौ ३१ • रसिकेन समाश्लिष्य रमयित्वा विसर्जिता क्रमेणैव तु सम्प्राप्ता सा पुनः कौसुमं सरः ३२ सा पुनस्तत्र माधव्या मज्जिता दक्षपश्चिमे पुंभावमभिसम्प्राप्तो नारदो विस्मितोऽभवत् ३३ ततो वृन्दाज्ञया तत्र सरसः पूर्वदक्षिणे एकान्तं तप आस्थाय तस्थौ तत्प्रेक्षणोत्सुकः ३४ एवं तपस्यतस्तस्य नारदस्य महात्मनः वृन्दया प्रेषितैर्वृत्तिं निजां कल्पयतः फलैः ३५ एकदा नारदस्तत्र विचरन्नाश्रमान्तरे शुश्राव सौभगं शब्द कयाचित्समुदीरितम् ३६ तच्छ्रुत्वा कौतुकाविष्टो नारदोऽध्यात्मदर्शनः विचिन्वन्वनमास्थाय न ददर्श च तत्पदम् ३७ ततः स विस्मयाविष्टो वृन्दां पप्रच्छ सादरम् सापि तस्मै समाचख्यौ कुब्जावृत्तान्तमादितः ३८ भूम्यन्तरगृहस्थाना कुब्जा नारी वरा विभोः काममेकान्तके स्वेशं समुपाचरति

नारद पुराण उत्तरार्ध अध्याय ८० भाग २

 यत्र वृन्दा स्थिता देवी कृष्णभक्तिपरायणा समागतानां सत्कारं विदधाना फलादिभिः १४ तां दृष्ट्वा तापसीं भद्रे नारदः साधुसम्मतः नमस्कृत्य विनम्राङ्गो निषसाद धरातले १५ ततः सा ध्यानयोगान्ते समुन्मील्य विलोचने आसनं सन्दिदेशाथोऽतिथये नारदाय वै १६ ततः स नारदस्तत्र सत्कृतो वृन्दयावसत् रहस्यं गोपिकेशस्य तस्या जिज्ञासुरादरात् १७ तथा कृतां सत्कृतिं तु स्वीकृत्य विधिनन्दनः सुप्रसन्नान्तरां वृन्दां ज्ञात्वा हार्दं व्यजिज्ञपत् १८ सा तु तद्वाञ्छितं ज्ञात्वा ध्यानयोगेन भामिनि स्वसखीं माधवीं तत्र समाहूयाब्रवीदिदम् १९ माधवि प्रियमेतस्य नारदस्य महात्मनः सम्पादय यथा मह्यमाश्रमस्य सपुण्यता २० स्वाश्रमं ह्यागतस्यैव यो न सम्पादयेत्प्रियम् निष्फलो ह्याश्रमस्तस्य फेरुराजगृहोपमः २१ अथ सा माधवी देवी नीत्वा नारदमाज्ञया स्वाधिष्ठात्र्यास्तु वृन्दायाः सरसस्तटमुत्तमम् २२ पश्चिमोत्तरतस्तस्मिन् स्नातुं तं सन्दिदेश ह ततस्तदाज्ञया भद्रे नारदो देवदर्शनः २३ निममज जले तस्मिन्ध्यायञ्छ्रीकृष्णसङ्गमम् निमज्जमाने सरसि नारदे मुनिसत्तमे २४ ययौ वृन्दान्तिके भद्रे संविधाय तदीप्सितम् अथासौ नारदस्तत्र सन्निमज्योद्गतस्तदा २५ ददर्श निजमा

नारद पुराण उत्तरार्ध अध्याय ८० भाग १

 मोहिन्युवाच मथुरायास्तु माहात्म्यं वनानां चापि मानद श्रुतं वृन्दावनस्यापि रहस्यं किञ्चिदीरय १ वृन्दारण्यं भुवो ब्रह्मन्कीर्तिरूपं रहोगतम् तच्छ्रोतुं मम वाञ्छास्ति तन्निरूपय विस्तरात् २ वसुरुवाच शृणु देवि रहस्यं मे वृन्दारण्यसमुद्भवम् यन्त्र कस्मैचिदाख्यातं मया प्राप्य गुरूत्तमात् ३ गुरवे कथितं भद्रे नारदेन महात्मना वृन्दया नारदायोक्तं रहस्यं गोपिकापतेः ४ तत्तेऽह सम्प्रवक्ष्यामि जगदुद्धारकारणम् एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ५ वृन्दारण्यं समासाद्य तस्थौ पुष्पसरस्तटे पश्चिमोत्तरतो देवि माथुरे मण्डले स्थितम् ६ वृन्दारण्यं तुरीयांशं गोपिकेशरहःस्थलम् गोवर्द्धनो यत्र गिरिः सखिस्थलसमीपतः ७ वृन्दायास्तत्तपोऽरण्यं नन्दिग्रामानुयामुनम् तटे तु यामुने रम्ये रम्यं वृन्दावनं सति म पुण्यं तत्रापि सुभगे सुपुरायं कौसुमं सरः वृन्दायास्तु तटे रम्ये आश्रमोऽतिसुखावहः ९ नित्यं विश्रमते यत्र मध्याहे सखिभिर्हरिः मुहूर्तं स तु विश्रम्य स्त्रिग्धच्छायतरोस्तले १० शीतलं पुष्पसरसो वार्युपस्पृश्य नारदः कृत्वा माध्याह्निकं कर्म तस्थौ तत्र सरस्तटे ११ तत्र वृन्दाश्रमे रम्ये गोप्यो गोपाल मोहिनि आयान्ति वर्गशो यान

नारद पुराण उत्तरार्ध अध्याय ७९ भाग ४

 चतुर्व्यूहधरं दृष्ट्वा समभ्यर्च्य विधानतः नरो मुक्तिमवाप्नोति नात्र कार्या विचारणा ५० रङ्गेशं चापि भूतेशं महाविद्यां च भैरवम् दृष्ट्वा सम्पूज्य विधिवत्तीर्थयात्राफलं लभेत् ५१ चतुःसामुद्रिके कूपे कुब्जायाश्च गणेशितुः तथा कृष्णाख्यगङ्गायां स्नात्वा मुच्येत पातकात् ५२ सर्वस्य माथुराख्यस्य मण्डलस्य शुभानने आधिपत्ये स्थितो देवः केशवः क्लेशनाशनः ५३ अदृष्ट्वा केशवं भद्रे माथुरे पुण्यमण्डले जनर्निरर्थकं तस्य संसरेद्भवसागरे ५४ अन्यान्यसङ्ख्यतीर्थानि तत्र सन्ति शुभानने स्नात्वा तेष्वपि दत्त्वा च किञ्चित्तत्र स्थिताय च ५५ नरो न दुर्गतिं याति सत्यं तुभ्यं मयोदितम् मथुरायाञ्च माहात्म्यं श्रावयेद्यः शृणोति च सोऽपि भक्तिं हरौ लब्ध्वा सर्वान्कामानवाप्नुयात् ५६ 50. चारों व्युहों के स्वामी के पास जाकर और आज्ञा के अनुसार उनकी पूजा करने से मनुष्य मोक्ष को प्राप्त करता है।  51. रंगेष, भूटेसा, महाविद्या और भैरव के दर्शन और विधिवत पूजा करने से भक्त को तीर्थ यात्रा का लाभ प्राप्त होता है।  52. कतुसमुद्रिका (जहां चार महासागर मिलते हैं) में पवित्र डुबकी लगाने से, कुब्जा और गंगी के कुएं जिन्हें कृष्ण कहा जाता ह

नारद पुराण उत्तरार्ध अध्याय ७९ भाग ३

 तद्दक्षे कोटितीर्थं वै यत्र स्नानेन मानवः सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ३४ विश्रान्तेरुत्तरे भागे तीर्थमस्त्यसिकुण्डकम् यत्र स्नातो नरो देवि वैष्णवं लभते पदम् ३५ असिकुण्डस्य सौम्ये तु नवतीर्थं सुलोचने यत्र वै स्नानतो मर्त्यः स्वर्गलोके महीयते ३६ तीर्थं संयमनं नाम तत उत्तरतः स्थितम् तत्र स्नानेन दानेन यमलोकं न पश्यति ३७ तदुत्तरे परं तीर्थं धारायतनसंज्ञकम् तत्र स्नात्वा तु मनुजः पितृभिः सह मोदते ३८ तदुत्तरे नागतीर्थं यत्र स्नानेन मोहिनि सर्पेभ्यो ह्यभयं लब्ध्वा स्वर्गे लोके महीयते ३९ तदुत्तरे ब्रह्मलोकं घण्टाभरणकाह्वयम् स्नानात्पापापहं तीर्थं ब्रह्मलोकगतिप्रदम् ४० अस्मात्सौम्ये परं तीर्थे सोमाख्यं यत्र सम्प्लुतः सोमलोकमवाप्नोति विपापो मनुजोत्तमः ४१ स्नात्वा प्राचीसरस्वत्यां तस्मादुत्तरतः शुभे यत्र वै स्नानमात्रेण नरो वागीश्वरो भवेत् ४२ तदुत्तरे चक्रतीर्थं यत्र स्नातस्तु मानवः जित्वा शत्रुगणं स्वर्गे मोदते युगसप्तकम् ४३ दशाश्वमेधिकं तीर्थं तस्मादुत्तरतः स्थितम् यत्र स्नानेन सुभगे वाजिमेधफलं लभेत् ४४ गोकर्णाख्यं शिवं तत्र सम्पूज्य विधिवन्नरः सर्वान्कामानवाप्यान्ते शिवलोके महीयत

नारद पुराण उत्तरार्ध अध्याय ७९ भाग २

 यत्र स्त्रातस्तु मनुजी देवर्षिपितृतर्पणम् कृत्वा ऋणत्रयान्मुक्तो विष्णुलोके महीयते १९ विंशतिर्योजनानां तु माथुरं परिमण्डलम् यत्र कुत्राप्लुतस्तत्र विष्णुभक्तिमवाप्नुयात् २० तन्मध्ये मथुरा नाम पुरी सर्वोत्तमोत्तमा यस्या दर्शनमात्रेण भक्तिं विन्दति माधवे २१ विश्रान्तिसंज्ञकं यत्र तीर्थरत्नं नरेश्वरि तत्र स्नातो नरो भक्त्या वैष्णवं लभते पदम २२ विश्रान्तेर्निकटे दज्ञे विमुक्तं तीर्थमुत्तम् तत्र स्नातो नरो भक्त्या मुक्तिमाप्नोति निश्चितम् २३ ततोऽपि दक्षिणे भागे रामतीर्थं जनेश्वरि यत्र स्नातो नरोऽज्ञानबन्धान्मुक्तो भवेद्ध्रुवम् २४ संसारमोक्षणं तस्माद्दक्षिणे तीर्थमुत्तमम् तत्र स्नात्वा तु मनुजो विष्णुलोके महीयते २५ प्रयागाख्यं ततो दक्षे तीर्थं त्रिदशदुर्लभम् • स्त्रातस्तत्र नरो देवि अग्निष्टोमफलं लभेत् २६ ततः कनखलं तीर्थं यत्र स्नातो नरः सति स्वर्गमासाद्य देहान्ते मोदते नन्दनादिषु २७ तद्दते तिन्दुकं तीर्थं यस्मिन्स्नातो नरोत्तमः राजसूयफलं प्राप्य मोदते दिवि देववत् २८ ततः परं पटुस्वामितीर्थं भास्करवल्लभम् स्नात्वा यत्र रविं दृष्ट्वा भुक्तभोगो दिवं व्रजेत् २९ तस्माद्दक्षिणतो भद्रे ध्रुवतीर्थम

नारद पुराण उत्तरार्ध अध्याय ७९ भाग १

 मोहिन्युवाच श्रुतं ह्यवन्त्या माहात्म्यं वसो पापहरं नृणाम् अधुना श्रोतुमिच्छामि माहात्म्यं मथुराभवम् १ वसरुवाच शृणु मोहिनि वक्ष्यामि मथुरायाः शुभावहम वैभवं यत्र भगवाजवत २ आविर्भय विभुस्तत्र सम्प्राप्तो नन्दगोकुलम् तत्र स्थित्वाखिलाः क्रीडाशकार सह गोपकै ३ हत्वा च कंसप्रहितान्पूतनादीन्निशाचरान विजहार से गोपाभिवनेषु द्वादशस्वपि ४ वनेषु यानि तीर्थानि सन्ति यानि च माथुरे तानि तेऽह प्रवच्यामि शृणु मोहिनि साम्प्रतम् ५ आद्यं मधुवनं नाम स्नातो यत्र नरोत्तमः सन्तप्यं देवर्षिपितृविष्णुलोके महीयते ६ अथ तालादयं देवि द्वितीयं वनमुत्तमम् यत्र स्नातो नरो भक्त्या कृतकृत्यः प्रजायते ७ कुमुदाख्यं तृतीयं तु यत्र स्रात्वा सुलोचने लभते वाञ्छितान्कामानिहामुत्र च मोदते ८ ततः काम्यवनं नाम चतुर्थ परिकीर्तितम् बहतीर्थान्वितं यत्र गत्वा स्याद्विष्णुलोकभाक ९ यत्तत्र विमलं कुण्ड सर्वतीर्थोत्तमोत्तमम् तत्र स्नातो नरो भद्रे लभते वैष्णवं पदम् १० पञ्चमं बहुलाख्यं तं वनं पापविनाशनम् यंत्र त्रातस्तु मनुजः सर्वान्कामानवाप्नुयात १९ प्रस्ति भद्रवनं नाम यहुं स्वातोऽत्र मानवः कृष्णदेवप्रसादेन सर्वभद्राणि पश्यति १२ खादिरं तु

नारद पुराण उत्तरार्ध अध्याय ७८ भाग ४

 शिप्रायां वै नरः स्नात्वा यो महेशं समर्चयेत् स लभेत्सकलान्कामन्देवयोस्तु प्रसादतः ३७ स्नात्वा तु गोमतीकुण्डे स्वर्गतिं लभते नरः कुण्डे तु वामने स्नात्वा स्तौति नामसहस्रतः ३८ श्रीधरं सर्वदेवेशं यः स साक्षाद्धरिर्भवि स्नात्वा वीरेशसरसि योऽचयेत्कालभैरवम् ३९ स सर्वाः सम्पदो भुक्त्वा शिवलोकमवाप्नुयात् यः कुटुम्बेश्वरं प्राप्य पूजयेदुपचारकैः ४० सम्प्राप्य विविधान्कामानन्ते स्वर्गगतिं लभेत देवप्रयागसरसि योऽचयेद्देवमाधवम् ४१ स भक्तिं माधवे प्राप्य पदं विष्णोः समाप्नुयात् ककराजस्य तीर्थे तु स्नात्वा प्रयतमानसः ४२ सर्वरोगविनिर्मुक्तो धनी भोगी भवेत्सति अन्तर्गृहस्य यात्रायां विप्रेशं भैरवं ह्युमाम् ४३ रुद्रादित्यान्सुरानन्यान्योऽचयेच्छ्रद्धया नरः यथालब्धोपचाराद्यैः स भवेत्स्वर्गलोकभाक ४४ रुद्रसरः प्रभृतिष तीर्थान्यन्यानि भामिनि बहूनि तेषु चाभ्यर्च्य शङ्करं स्यात्सुखी नरः ४५ अष्टतीर्थ्यां नरः स्नात्वा साङ्गं यात्राफलं लभेत् कालारण्यस्य विधिजे सत्यं सत्यं मयोदितम् ४६ एतत्ते सर्वमाख्यातं माहात्म्यं पापनाशनम् अवन्त्या यन्नरः श्रुत्वा सर्वपापैः प्रमुच्यते ४७ 37. सिपरी नदी में स्नान कर पूजा करने वाला

नारद पुराण उत्तरार्ध अध्याय ७८ भाग ३

 अक्रूरेशं तु सम्पूज्य क्रूरेभ्योऽप्यभयं लभेत् मन्दाकिन्यां समाप्लुत्य गङ्गास्त्रानफलं लभेत् २४ अङ्कपादं नरोऽभ्यर्च्य शिवस्यानुचरो भवेत् चन्द्रादित्यं प्रपूज्याथ भोगान्नानाविधाँल्लभेत् २५ करभेश्वरमभ्यर्च्य यानसौख्यमवाप्नुयात् लड्डकप्रियविघ्नेशं समभ्यर्च्य सुखी भवेत् २६ कुसुमेशादिकान्प्रार्च्य सर्वान्भोगान्समश्नुते यज्ञवाप्यां नरः स्नात्वा मार्कण्डेशं समर्च्य च २७ सर्वयज्ञफलं लब्ध्वा युगमेकं वसेद्दिवि सोमवत्यां नरः स्नात्वाभ्यर्च्य सोमेश्वरं सति २५ वाञ्छिताल्लभते कामानिहामुत्र च मोहिनि यातनाकलने स्नात्वा यातनां नैव पश्यति २९ नरकेशं समभ्यर्च्य स्वर्गलोकगतिं लभेत् केदारेशं ततः प्रार्च्य रामेश्वरमथापि वा ३० सौभाग्येशं नरादित्यं लभते वाञ्छितं फलम् केशवाकं तु सम्पूज्य नरः स्यात्केशवप्रियः ३१ शक्तिभेदे ततः स्नात्वा मुच्यतेऽत्युग्रसङ्कटात् स्वर्णक्षरब्रह्मवाप्यां स्नात्वाभ्यर्च्याभयेश्वरम् ३२ अगस्त्येशं च विधिजे सम्पदामयनं भवेत् ॐकारेशादिलिङ्गानि यो नरः सम्यगर्चयेत् ३३ स लभेदखिलान्कामान्महेशस्य प्रसादतः महाकालवने देवि लिङ्गसङ्ख्या न विद्यते ३४ यत्र तत्र स्थितं लिङ्गं सम्पूज्य स्याच्छिवप्रियः त

नारद पुराण उत्तरार्ध अध्याय ७८ भाग २

 व्यापारे लाभमाप्नोति जायते च शिवप्रियः १० विद्याधराह्वये तीर्थे नर स्नात्वा विशुध्यति मार्कण्डेश्वरमभ्यर्च्य दीर्घायुश्च धनी भवेत् ११ सम्पूज्य शीतलां देवीं नरः कालवने स्थिताम विस्फोटकभयं नैव कदाचित्तस्य जायते १२ स्वर्गद्वारं समासाद्य स्रात्वाभ्यर्च्य सदाशिवम् नरो न दुर्गतिं याति स्वर्गलोके महीयते १३ राजस्थलं नरः प्राप्य ततः सामुद्रिके प्लुतः स्नानस्य सर्वतीर्थानां लभते फलमुत्तमम् १४ शङ्करस्य तथा वाप्यां स्नात्वा नियमवान्नरः प्राप्येह वाञ्छितान् भोगानन्ते रुद्रपुरं व्रजेत् १५ शङ्करादित्यमभ्यर्च्य नरः स्याद्दुष्प्रधर्षणः स्नातस्तु नीलगङ्गायां देवीं गन्धवर्ती नरः १६ सम्पूज्य भक्तिभावेन सर्वपापैः प्रमुच्यते दशाश्वमेधिके स्नात्वा वाजिमेधफलं लभेत् १७ अथ मर्त्यः समासाद्य एकानंशां सुरेश्वरीम् सम्पूज्य गन्धपुष्पाद्यैः सर्वान्कामानवाप्नुयात् १८ हरसिद्धिं नरोऽभ्यर्च्य सर्वसिद्धीश्वरो भवेत् पिशाचकादिकान्मर्त्यः समभ्यर्च्य चतुर्द्दश १९ सर्वान्कामानवाप्नोति नात्र कार्या विचारणा हनुमत्केश्वरं प्रार्चेत्स्नात्वा रुद्रसरोवरे २० यो नरः श्रद्धया युक्तः स लभेत्सम्पदोऽखिलाः वाल्मीकेश्वरमभ्यर्च्य सर्वविद्य

नारद पुराण उत्तरार्ध अध्याय ७८ भाग १

 मोहिन्युवाच अत्यद्भुतमिदं विप्र माहाम्त्यं नर्मदाभवम् श्रुतं त्वया निगदितं नृणां पापविनाशनम् १ अधुना तु महाभाग ब्रूहि मेऽवन्तिसम्भवम् माहात्म्यं देववन्दयस्य महाकालस्य च प्रभो २ वसुरुवाच शृणु भद्रे प्रवक्ष्यामि ह्यवन्त्याः पुण्यदं नृणाम् माहात्म्यं सर्वपापघ्नं यथावत्परिकीर्तितम् ३ महाकालवनं पुण्यं तपः स्थानमनुत्तमम् यत्र देवो महाकालः स्थितस्तपसि नित्यदा ४ महाकालवनात्क्षेत्रं नापरं विद्यते भुवि यत्र गत्वा नरो देवि स्पर्द्धते दैवतैः सह ५ कपालमोचनं नाम यत्र तीर्थ सुलोचने तत्र स्नात्वा नरो भक्त्या ब्रह्महापि विशुध्यति ६ तथा कलकलेशाख्यं देवमभ्यर्च्य मानवः विवादे जयमाप्नोति कार्यसिद्धिं च सन्ततम् ७ अत्रान्यदप्सरः कुण्डं तीर्थं तत्राप्लुतो नरः सुभगो भोगवान्भूयात्साक्षात्कन्दर्प्पसन्निभः ८ प महिषाख्ये तथा कुण्डे स्नातः शत्रूञ्जयेद्रणे स्त्रातस्तु रुद्रसरसि रुद्रलोके महीयते ह कुण्डवेश्वरमासाद्य समभ्यर्च्य विधानतः ९ मोहिनी ने कहा:  1. हे ब्राह्मण, नर्मदा की यह महानता बहुत अद्भुत है। यह मेरे द्वारा सुना गया है जैसा आपने वर्णन किया था। यह पापों का नाश करने वाला है। 2. हे धन्य पवित्र भगवान, अब मु

नारद पुराण उत्तरार्ध अध्याय ७७ भाग २

 भृगोः क्षेत्रे च तीर्थानां कोटिरेका व्यवस्थिता भारभूत्यां च तीर्थानां शतमष्टोत्तरं स्थितम् १४ अक्रूरेशे सार्द्धशतं विमलेशे दशायुतम् सा सार्द्धकोटिरित्येषा तीर्थसंज्ञा च नार्मदे १५ दशादित्यस्य नव च कपिलस्याष्ट वै विधोः नन्दिनः कोटिसंज्ञानि तथैवाष्ट शुभानने १६ नागानिसिद्धावर्तानि सप्तसंख्यानि मोहिनि केदारेन्द्रियवारीशनंदिदैवानि पञ्च वै १७ यमेशा वैद्यनाथाश्च वामनाङ्गारकेश्वराः सारस्वता मुनीशाश्च दारुकेशाश्च गौतमाः १८ चत्वार एव गदितास्त्रयो वै विमलेश्वराः सहस्त्रयज्ञभीष्मेशास्स्वर्णतीर्थानि चापि हि १९ धौतपापकरञ्जेशऋणमुक्तिगुहाह्वयम् दशाश्वमेधनन्दाख्यं मन्मथेशाख्यभार्गवम २० पराशरायोनिसंज्ञं व्यासाख्यपितृनन्दिकम् गोपेशमारुतेशाख्यं जङ्गलेशाख्यशुक्लकम् २१ अक्षरेशं पिप्पलेशं माण्डव्यदीपकेश्वरम् उत्तरेशमशोकेशं योधनेशं च रौहिणम् २२ लुकेशं च द्विसङ्ख्याकं प्रत्येकं गदितं शुभे सैकोनविंशतिशतं तीर्थान्येकैकशः शुभे २३ स्तबकेषु च तीर्थानि द्विशतं च चतुर्द्दशम् शैवान्येतानि तीर्थानि वैष्णवानि द्विविंशतिः २४ ब्राह्माण सर्वतीर्थानि शाक्तान्यष्टौ च विंशतिः तेषु सप्त च मातॄणां त्रीणि ब्राहम्याः शुभानने २५

नारद पुराण उत्तरार्ध अध्याय ७७ भाग १

 मोहिन्युवाच श्रुतं मया द्विजश्रेष्ठ सेतुमाहात्म्यमुत्तमम् अधुना श्रोतुमिच्छामि नर्मदातीर्थसङ्ग्रहम् १ वसुरुवाच शृणु मोहिनि वक्ष्यामि नर्मदोभयतीरगम् चतुःशतं मुख्यतमं प्रोक्तं तीर्थकदम्बकम् २ एकादशोत्तरे तीरे दक्षिणे च त्रिविंशतिः पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसङ्गमः ३ ॐ कारतीर्थं परितो नगादमरकण्टकात् क्रोशद्वये सर्वदिन सार्द्धकोटित्रयी स्थिता ४ कोटिरेका तु तीर्थानां कपिलासङ्गमे स्थिता अशोकवनिकायां च तीर्थलक्षं प्रतिष्ठितम् ५ शतमङ्गारगर्तायाः कुब्जाया प्रयुतं तथा सहस्रं वायुसङ्गे तु सरस्वत्याः शतं स्थितम् ६ शतद्वयं शुक्लतीर्थे सहस्रं विष्णुतीर्थके माहिष्मत्यां च साहस्रं शूलभेदेऽयुतं विदुः ७ देवग्रामे सहस्रं चोलूके सप्तशती स्थिता तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे ८ वैद्यनाथे च तावन्ति तावन्त्येव घटेश्वरे सार्द्धलक्षं च तीर्थानां स्थितं रेवाब्धिसङ्गमे ९ अष्टाशीतिसहस्त्राणि व्यासे द्वीपशतानि च सङ्गमे तु करञ्जायाः स्थितमष्टोत्तरायुतम् १० एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् धूतपापेऽष्टषष्टिश्च सार्द्धकोटिश्च कोकिले ११ सहस्रं रोमकेशे च द्वादशार्के सहस्रकम् लक्षाष्टके सहस्रे द्व

नारद पुराण उत्तरार्ध अध्याय ७६ भाग २

 रामकुण्डे प्लुतो मर्त्यो रामसालोक्यमाप्नुयात् लक्ष्मीतीर्थाभिषेकेण लक्ष्मीवान् रूपवान्भवेत् १३ अग्नितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः स्नानेन शिवतीर्थे तु शिवलोकगतिर्भवेत् १४ शङ्खतीर्थे तु संस्त्रातो न नरो दुर्गतिं व्रजेत् यमुनादिषु तीर्थेषु नरः स्नात्वा दिवं व्रजेत् १५ कोटितीर्थे तु सम्प्लुत्य सर्वतीर्थफलं लभेत् साध्यामृते प्लुते याति नरः साध्यसलोकताम् १६ सर्वतीर्थे नरः स्नात्वा लभेत्कामानभीप्सितान् धनुष्कोट्यां तु विधिवत्स्त्रातो मुच्येत बन्धनात् १७ क्षीरकुंडाप्लुतो मर्त्यो भोगानुच्चावचाल्लभेत् कपितीर्थे नरः स्नात्वा न वियोनिं समालभेत १८ गायत्र्यां च सरस्वत्यां स्नातो मुच्येत किल्बिषात् ऋणमोचनतीर्थादौ स्नात्वा मुक्तो भवेदृणात् १९ इत्येतत्सेतुतीर्थानां माहात्म्यं गदितं शुभे पठतां शृण्वतां चैव सर्वपातकनाशनम् २० 13. जो व्यक्ति रामकुंड में डुबकी लगाता है वह राम के लोक को प्राप्त करता है। लक्ष्मीतीर्थ में स्नान करने से मनुष्य भाग्यशाली और सुन्दर बनता है।  14. अग्नितीर्थ में पवित्र स्नान करने से मनुष्य सभी पापों से मुक्त हो जाता है। शिवतीर्थ में स्नान करने से शिवलोक की प्राप्ति

नारद पुराण उत्तरार्ध अध्याय ७६ भाग १

 मोहिन्युवाच साधु साधु द्विजश्रेष्ठ यन्मे रामायणं त्वया श्रावितं सर्वपापन्नं नृणां पुण्यविवर्द्धनम् १ अधुना श्रोतुमिच्छामि सेतुमाहात्म्यमुत्तमम् वसुरुवाच शृणु देवि प्रवक्ष्यामि सेतुमाहात्म्यमुत्तमम् २ यं दृष्ट्वा मनुजो देवि मुच्यते भवसागरात् सेतोः सन्दर्शनं पुण्यं यत्र रामेश्वरो विभुः ३ दर्शनादेव मर्त्यानाममरत्वं प्रयच्छति रामेश्वरं तु सम्पूज्य नरो नियतमानसः ४ • सर्वाः समश्नुते भूतीर्नात्र कार्या विचारणा चक्रतीर्थमिहान्यञ्च वर्तते पापनाशनम् ५ स्नानं दानं जपो होमस्तत्रानन्त्यं विगाहते तालतीर्थं तु सम्प्राप्य यः स्त्रायात्तत्र मानवः ६ स उत्तमां जनिं लब्ध्वा मोदते देववद्भवि ततः सम्प्राप्य सुभगे तीर्थं पापविनाशनम् ७ स्नात्वा निर्धूतपापोऽसौ नरः स्वर्गे महीयते सीताकुण्डे ततः प्राप्य स्नानं सम्यग्विधाय च ८ तर्पयित्वा पितृन्देवान्सर्वान्कामानवाप्नुयात् मङ्गलं तीर्थमासाद्य स्रात्वा मुच्येत पातकान् ९ स्नात्वैवामृतवाप्यां तु मानवोऽमरतां लभेत् ब्रह्मकुंडे नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् १० स्नात्वा लक्ष्मणतीर्थे वै नरो योगगतिं व्रजेत् जटातीर्थे नरः स्नात्वा नीरोगी जायते भुवि ११ हनुमत्कुण्डके स्न

नारद पुराण उत्तरार्ध अध्याय ७५ भाग ६

 दृष्ट्वा तु लक्ष्मणं काल उत्थाय कृतमन्त्रकः प्रतिज्ञां पालयेत्युक्त्वा ययौ रामविसर्जितः ६७ ततो निष्क्रम्य भगवान् रामो धर्मभृतां वरः प्रतोष्य तं मुनिं प्रीतो दुर्वाससमभोजयत् ६८ भोजयित्वा प्रणम्यैनं विसृज्य प्राह लक्ष्मणम् भ्रातर्लक्ष्मण सम्प्राप्तं सङ्कटं धर्मकारणात् ६९ यत्त्वं मे वध्यतां प्राप्तो दैवं हि बलवत्तरम् मया त्यक्तस्ततो वीर यथेच्छं गच्छ साम्प्रतम् ७० ततः प्रणम्य तं रामं सत्यधर्मे व्यवस्थितम् दक्षिणां दिशमाश्रित्य तपश्चक्रे नगोपरि ७१ ततो रामोऽपि भगवान्ब्रह्मप्रार्थनया पुनः स्वधामाविशदव्यग्रः ससाकेतः सकोशलः ७२ गोप्रतारे सरय्वां ये रामं सञ्चिन्त्य सम्प्लुताः ते रामधाम विविशुर्दिव्याङ्गा योगिदुर्लभम् ७३ लक्ष्मणस्तु कियत्कालं तपोयोगबलान्वितः रामानुगमनेनैव स्वधामाविशदव्ययम् ७४ सान्निध्यं पर्वते तस्मिन्दत्त्वा सौमित्रिरन्वहम् चक्रं निजाधिकारं स ततस्तत्क्षेत्रमुत्तमम् ७५ ये पश्यन्ति नरा भक्त्या लक्ष्मणं लक्ष्मणाचले ते कृतार्था न सन्देहो गच्छन्ति हरिमन्दिरम् ७६ तत्र दानं प्रशंसन्ति स्वर्णगोभूमिवाजिनाम् दत्तं तत्राक्षयं सर्वं हुतं जतं कृतं तथा ७७ बहुना किमिहोक्तेन दर्शनं तस्य दुर्लभम्